वांछित मन्त्र चुनें

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

अंग्रेज़ी लिप्यंतरण

na yajamāna riṣyasi na sunvāna na devayo | devānāṁ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

पद पाठ

न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥ ८.३१.१६

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:16 | अष्टक:6» अध्याय:2» वर्ग:40» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:16


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यजमान) हे यजमान ईश्वरपूजक जन ! यदि आप सदा परमात्मा का ही यजन करते हैं, तो (न रिष्यसि) न कदापि विनष्ट होंगे। (सुन्वान) हे शुभकर्म सम्पादक जन ! यदि आप सदा शुभकर्म ही करते रहेंगे, तो (न+रिष्यसि) आपका विनाश कदापि न होगा तथा (देवयो) हे देवाभिलाषीजन ! यदि आप सदा एक देव की ही इच्छा करेंगे तो (न+रिष्यसि) आप कभी नष्ट न होंगे। इसी प्रकार (यः+यजमानः) पूर्ववत् ॥१६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे यजमान ! ईश्वरपूजकजन ! यदि त्वम्। परमात्मानमेव यजसि। तर्हि त्वं। न रिष्यसि विनष्टो न भवति। न तव नाशो भविष्यतीत्यर्थः। हे सुन्वान ! हे शुभकर्मसम्पादक ! यदि त्वम्। सदा शुभान्येव कर्म्माणि करोषि तदा त्वं न रिष्यसि न विनश्यसि। हे देवयो ! परमात्मानम् कामयते यः स देवयुः। तस्य सम्बोधने हे देवयो सदा देवकामिन्। यदि त्वम्। सर्वं विहाय केवलमेकमेव ईशम् कामयसे। तदा त्वं न रिष्यसि। यश्च यजमान उपासकः। यश्च देवानाम्। इत्यादि पूर्ववत् ॥१६॥